Ramagya
🪷

ललिता सहस्रनाम

Devi

॥ श्री ललिता सहस्रनाम स्तोत्रम् ॥ ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी । चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥१॥ उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता । रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥२॥ मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका । निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥३॥ चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा । कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥४॥ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता । मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥५॥ ॥ फलश्रुति ॥ सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् । सर्वापमृत्युशमनं सर्वव्याधिनिवारणम् ॥